स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः। धनञ्जयानामृषभः सुसामा सामगोऽभवत्
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः। पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत्
एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ। बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः
ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम्। शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत्
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः। गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम्
तत आज्ञापयामास स राजा राजसत्तमः। सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्। उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ। विनाश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्। आमन्त्रयाम्बभूवुस्ते प्रेषयामास चापरान्
दूताश्च वाहनैर्जग्भू राष्ट्राणि सुबहून्यपि। ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ। द्रोणाय धृतराष्ट्राय विदुराय कृपाय च। भ्रातृणां चैव सर्वेणां येऽनुरक्ता युधिष्ठिरे
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्। दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत
ज्येष्ठामूले अमावास्यां मृगाजिनसमावृतः। रौरवाजिनसंवीतो नवनीताक्तदेहवान्
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः। जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह। क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव। आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः। तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्
बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक् पृथक्। सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः
तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः। कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्
भुञ्जतां चैव विप्राणां वदतां च महास्वनः। अनिशं श्रूयते तत्र मुदितानां महात्मनाम्
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति। एवम्प्रकाराः सञ्जल्पाः श्रूयन्तेस्मात्र नित्यशः
गवां शतसहस्राणि शयनानां च भारत। रुक्मस्य योषितां चैव धर्मराजः पृथक् ददौ
प्रावर्ततैव यज्ञः स पाण्डवस्य महात्मनः। पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे
तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा। पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः
ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत। समादाय महार्हाणि रत्नानि विविधानि च
तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा। राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ
बहु वित्तं समादाय विविधं पार्थिवा ययुः। द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम्
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः। भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा। धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम्
दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत्