दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्। राजवल्लभतश्चैव नाश्रूयन्त मृषागिरः
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्। सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्। अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चनः
धर्मैर्धनागमैस्तस्य ववधे निचयो महान्। कर्तुं यस्य न शक्येन क्षयो वर्षशतैरपि
स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः। विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे
सुहृदश्चैव ये सर्वे पृथक्च सहचाब्रुवन्। यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः। ऋषिः पुराणो वेदात्मा दृश्यश्चैव विजानताम्
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह। भूतभव्यभवन्नाथः केशवः केशिसूदनः
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा। बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्
उच्चावचमुपादाय धर्मराजाय माधवः। धनौघं पुरुषव्याघ्रो बलेन महता वृतः
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्। नादयन्रथघोषेण प्रविशेश पुरोत्तमम्
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्। असूर्यमिव सूर्येण निवातमिव वायुना। कृष्णेन समुपेतेन जहृषे भारतं पुरम्
तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि। स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः
म्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभः। भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते। धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत। उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया। अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि
तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज। त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्
मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो। अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्
तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्। त्वमेव राजशार्दूल रम्राडर्हो महाक्रतुम्। सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्
यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते। नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम। यस्यमे त्वं हृषीकेश यथेप्सितमुपस्थितः
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह। ईजितुं राजसूयेन साधनान्युपचक्रमे
ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः। सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्व्जातिभिः। यथोपकरणं सर्वं मङ्गलानि च सर्वशः
अधियज्ञांश्च सम्भारान्दौम्योक्तान्क्षिप्रमेव हि। समानयन्तु पुरुषा यथायोगं यथाक्रमम्
इन्द्रसेनो विशोकश्च पूरश्चार्जुनसारथिः। अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः। मनोरथप्रीतिकरा द्विजानां कुरुसत्तम
तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत्। सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे
ततो द्वैपायनो राजन्नृत्विजः समुपानयत्। वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान्