स चास्य गतभी राजन्प्रतिजग्राह शासनम्। ततः शाकलमभ्येत्य मद्राणां पुटभेदनम्
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली। स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः। ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान्
पह्लवान्वर्बरांश्चैव किरातान्यवनाञ्शकान्। ततो रत्नान्यपादाय वशे कृत्वा च पार्थिवान्। न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवित्
करमाणां सहस्राणि कोशं तस्य महात्मनः। ऊहर्दश महाराज कृच्छ्रादिव महाधनम्
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्। ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत्
एवं विजित्य नकुलो दिशं वरुणपालिताम्। प्रतीचीं वासुदेवेन निर्जितां भरतर्षभ
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्। शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्। निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्
सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक्। विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्। राजवल्लभतश्चैव नाश्रूयन्त मृषागिरः
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्। सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्। अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चनः
धर्मैर्धनागमैस्तस्य ववधे निचयो महान्। कर्तुं यस्य न शक्येन क्षयो वर्षशतैरपि
स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः। विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे
सुहृदश्चैव ये सर्वे पृथक्च सहचाब्रुवन्। यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः। ऋषिः पुराणो वेदात्मा दृश्यश्चैव विजानताम्
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह। भूतभव्यभवन्नाथः केशवः केशिसूदनः
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा। बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्
उच्चावचमुपादाय धर्मराजाय माधवः। धनौघं पुरुषव्याघ्रो बलेन महता वृतः
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्। नादयन्रथघोषेण प्रविशेश पुरोत्तमम्
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्। असूर्यमिव सूर्येण निवातमिव वायुना। कृष्णेन समुपेतेन जहृषे भारतं पुरम्
तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि। स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः
म्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभः। भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते। धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत। उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया। अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि
तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज। त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्
मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो। अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्
तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्। त्वमेव राजशार्दूल रम्राडर्हो महाक्रतुम्। सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्