शङ्खांश्च चन्द्रसङ्काशांश्चित्रावर्तविचित्रितान्। यज्ञस्य तोरणे युक्तान्ददौ तालांश्चतुर्दश
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः। मुकुटानि महार्हाणि रत्नगर्भांश्च कङ्कणान्
चन्दनानि च मुख्यानि वासांसि विविधानि च। स ददौ सहदेवाय तदा राजा विभीषणाः
तानि सर्वाणि रत्नानि आजह्रुस्ते निशाचराः। अष्टाशीतिसहस्राणि समदा रक्तलोचनाः
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः। विभीषणं च राजानमभिवाद्य कृताञ्जलिः
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः। ततो रत्नान्युपादाय हैडिम्बो राक्षसैः सह
जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति। आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम्
सहदेवो ददर्शाथ रत्नाहारान्निशाचरान्। आगतान्भीमसङ्काशान्हैडिम्बं च तथा नृप
द्रमिला नैऋतान्दृष्ट्वा दुद्रुवुस्ते भयार्दिताः। भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिः स्थितः
प्रीतिमानभवद्दृष्ट्वा रत्नौधं तं च पाण्डवः। तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान्प्रीतिमानभूत्
विसृज्य द्रविडान्सर्वान्गमनायोपचक्रमे। न्यवर्तम ततो धीमान्सहदेवो नराधिपः
एवं विजित्य तरसा सान्त्वेन विजयेन च। करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः
रत्नसालमुपादाय ययौ सहनिशाचरः। इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम्
दृष्ट्वा युधिष्ठिरं राजन्सहदेवः कृताञ्जलिः। प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चापि तेन वै
लङ्काप्राप्तान्धनौघांश्च दृष्ट्वा तान्दुर्लभान्बहून्। प्रीतिमानभवद्राजा विस्मयं परमं ययौ
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ। कोटीसहस्रमधिकं हिरण्यस्य महात्मने
विविधानि च रत्नानि गोजाविमहिषांस्तथा। कृतकर्मा सुखं राजन्नुवास जनमेजय
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा। वासुदेवजितामाशां यथाऽसावजयत्प्रभुः
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम्। उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह
सिंहनादेन महता योधानां गर्जितेन च। रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम्
ततो बहु धनं रम्यं गावाढ्यं धनधान्यवत्। कार्तिकेयस्य दयितं रोहीतकुपाद्रवत्
तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः। मरुभूमिं स कार्त्स्न्येन तथैव बहुधान्यकम्
शैरीषकं महेत्थं च वशे चक्रे महाद्युतिः। आक्रोशं चैव राजर्षि तेन युद्धमभून्महत्
तान्दशार्णान्स जित्वा च प्रतस्थे पाण्डुनन्दनः। शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्च कर्पटान्
तथा मध्यमकेयांश्च वाटधानान्द्विजानथ। पुनश्च परिवृत्याथ पुष्करारण्यवासिनः
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः। सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः
शूराऽऽभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्। वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः
कत्स्नं पञ्चनन्दं चैव तथैवामरपर्वतम्। उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम्
द्वारपालं च तरसा वशे चक्रे महाद्युतिः। रामठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः। तत्रस्थः प्रेषयामास वासुदेवाय भारत