अश्वांश्च विविधान्दिव्यान्सर्वानादाय फल्गुनः। धनं बहुविधं राजन्धर्मपुत्राय वै ददौ
भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात्। वशे कृत्वा महीपालान्पाण्डवाय धनं ददौ
दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा। सहदेवो दिशं याम्यां जित्वा सर्वान्महीक्षितः
मां सन्दिदेश राजेन्द्र करार्थमिह सत्कृतः। पार्थानां चरितं तुभ्यं सङ्क्षेपात्समुदाहृतम्
तमवेक्ष्य महाराज धर्मराजं युधिष्ठिरम्। पावनं राजसूयं च भगवन्तं हरिं प्रभुम्। एतानवेक्ष्य धर्मज्ञ करं दातुमिहार्हसि
तेन तद्भाषितं श्रुत्वा राक्षसेन्द्रो बिभीषणः। शासनं प्रतिजग्राह धर्मात्मा राक्षसैः सह
तच्च कृष्णकृतं धीमानित्यमन्यत स प्रभुः। ततो ददौ विचित्राणि कम्बलानि कुथानि च
दान्तकाञ्चनपर्यङ्कान्मणिहेमविचित्रितान्। भूषणानि महार्हाणि प्रवालानि मणींश्च सः
काञ्चनानि च भाण्डनि कलशानि घटानि च। कटाहानि विचित्रानि द्रोण्यश्चैव सहस्रशः
राजतानि च भाण्डानि रत्नगर्भांश्च कुण्डलान्। हेमपुष्पानि चान्यानि रुक्ममुख्यानि चापरान्
शङ्खांश्च चन्द्रसङ्काशांश्चित्रावर्तविचित्रितान्। यज्ञस्य तोरणे युक्तान्ददौ तालांश्चतुर्दश
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः। मुकुटानि महार्हाणि रत्नगर्भांश्च कङ्कणान्
चन्दनानि च मुख्यानि वासांसि विविधानि च। स ददौ सहदेवाय तदा राजा विभीषणाः
तानि सर्वाणि रत्नानि आजह्रुस्ते निशाचराः। अष्टाशीतिसहस्राणि समदा रक्तलोचनाः
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः। विभीषणं च राजानमभिवाद्य कृताञ्जलिः
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः। ततो रत्नान्युपादाय हैडिम्बो राक्षसैः सह
जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति। आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम्
सहदेवो ददर्शाथ रत्नाहारान्निशाचरान्। आगतान्भीमसङ्काशान्हैडिम्बं च तथा नृप
द्रमिला नैऋतान्दृष्ट्वा दुद्रुवुस्ते भयार्दिताः। भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिः स्थितः
प्रीतिमानभवद्दृष्ट्वा रत्नौधं तं च पाण्डवः। तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान्प्रीतिमानभूत्
विसृज्य द्रविडान्सर्वान्गमनायोपचक्रमे। न्यवर्तम ततो धीमान्सहदेवो नराधिपः
एवं विजित्य तरसा सान्त्वेन विजयेन च। करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः
रत्नसालमुपादाय ययौ सहनिशाचरः। इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम्
दृष्ट्वा युधिष्ठिरं राजन्सहदेवः कृताञ्जलिः। प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चापि तेन वै
लङ्काप्राप्तान्धनौघांश्च दृष्ट्वा तान्दुर्लभान्बहून्। प्रीतिमानभवद्राजा विस्मयं परमं ययौ
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ। कोटीसहस्रमधिकं हिरण्यस्य महात्मने
विविधानि च रत्नानि गोजाविमहिषांस्तथा। कृतकर्मा सुखं राजन्नुवास जनमेजय
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा। वासुदेवजितामाशां यथाऽसावजयत्प्रभुः
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम्। उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह
सिंहनादेन महता योधानां गर्जितेन च। रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम्