दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम्। विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम्
उपोपविष्टं सचिवैर्देवैरिव शतक्रतुम्। यक्षैर्महात्मभिर्दिव्यनारीभिर्हृद्यकान्तिभिः
गीतैर्मङ्गलयुक्तैश्च पूज्यमानं यथा दिवि। चामरे व्यजने चाग्र्ये हेमदण्डे महाधने
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि। अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम्
धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेस्वरम्। राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा
दृष्ट्वा घटोत्कचो राजन्ववन्दे तं कृताञ्जलिः। प्रह्वस्तस्थौ महावीर्यः शक्रं चित्ररथो यथा
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः। पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत्
कस्य वंशे स सञ्जातः करमिच्छन्महीपतिः। तस्यानुजान्समस्तांश्च पुरं देशं च तस्य वै
त्वां च कार्यं च तत्सर्वं श्रोतुमिच्छामि तत्वतः। विस्तरेण मम ब्रूहि सर्वानेतान्पृथक्पृथक्
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना। कृताञ्जलिरुवाचाथ समर्थमिदमुत्तरम्
सोमवंशोद्भवो राजा पाण्डुर्नाम महाबलः। पाण्डोश्च पुत्राः पञ्चासञ्छक्रतुल्यपराक्रमाः
तेषां ज्येष्ठस्तु नाम्ना वै युधिष्ठिर इति श्रुतः। अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत्। गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः। भ्रातृभिः सह राजेन्द्र शक्रप्रस्थेऽन्वमोदत
गङ्गायमुनयोर्मध्ये ते उभे नगरोत्तमे। नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशास्ति नः
तस्यानुजो महाबाहुर्भीमसेन इति श्रुतः। महातेजा महाकीर्तिः शक्रतुल्यपराक्रमः
दशनागसहस्राणां बले तुल्यः स पाण्डवः। तस्यानुजोऽर्जुनो नाम महाबलपराक्रमः
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः। कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले
जामदग्न्यसमश्चास्त्रे सङ्ख्ये रामसमोऽर्जुनः। रूपे शक्रसमः पार्थस्तेजसा भास्करोपमः
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः। मानुषैश्च समस्तैस्तु अजेयः फल्गुनो रणे
तेन तत्खण्डवं दावं तर्पितं जातवेदसे। विजित्य तरसा शक्रं युधि देवगणैः सह
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्। तेन लब्धा महाराज दुर्लभा दैवतैरपि
वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता। अर्जुनस्यानुजो राजन्नकुलश्चेति विश्रुतः
दर्शनीयतमो लोके मूर्तिमानिव मन्मथः। तस्यानुजो महातेजाः सहदेव इति श्रुतः
तेनाहं प्रेषितो राजन्कुमारेण समो रणे। अहं घटोत्कचो नाम भीमसेनसुतो बली
मम माता महाभागा हिडिम्बा नाम राक्षसी। पार्थानामुपकारार्थं चरामि पृथिवीमिमाम्
आसीत्पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः। राजसूयं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे
सन्दिदेश च स भ्रातृन्करार्थं सर्वतोदिशम्। वृष्णिवीरेण सहितः सन्दिदेशानुजान्नृपः
उदीचीमर्जुनस्तूर्णं गत्वा मेरोरथोत्तमः। गत्वा शतसहस्राणि योजनानि महाबलः
त्वा सर्वान्नृपान्युद्धे हत्वा च तरसा वशी। स्वर्गद्वारमुपागम्य रत्नान्यादाय वै भृशम्