एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम्। द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः
स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम्। ततः कैलाससङ्काशं तत्पकाञ्चनतोरणम्
प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितम्। हर्म्यप्रासादसम्बाधं नानारत्नोपशोभितम्
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि। वज्रवैडूर्यजुष्टैश्च स्तम्भैश्च सुमनोहरैः
नानाध्वजपताकाभिर्युक्तं मणिविचित्रितम्। चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम्
स दृष्ट्वा तत्र सर्वं च भैमसेनिर्मनोहरम्। प्रविशन्नेव हैडिम्बः शुश्राव मधुरस्वरम्
तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम्। दिव्यदुन्दुभिनिर्ह्रादं वादित्रसततं शुभम्
स श्रुत्वा मधुरं शब्दं प्रीतिमानभवत्तदा। ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम्
स ददर्श महात्मानं द्वार्स्थेन सह भारत। तं विभीषणमासीनं काञ्चने परमासने
दिवि भास्करसङ्काशं मुक्तामणिविभूषितम्। दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम्
दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम्। विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम्
उपोपविष्टं सचिवैर्देवैरिव शतक्रतुम्। यक्षैर्महात्मभिर्दिव्यनारीभिर्हृद्यकान्तिभिः
गीतैर्मङ्गलयुक्तैश्च पूज्यमानं यथा दिवि। चामरे व्यजने चाग्र्ये हेमदण्डे महाधने
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि। अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम्
धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेस्वरम्। राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा
दृष्ट्वा घटोत्कचो राजन्ववन्दे तं कृताञ्जलिः। प्रह्वस्तस्थौ महावीर्यः शक्रं चित्ररथो यथा
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः। पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत्
कस्य वंशे स सञ्जातः करमिच्छन्महीपतिः। तस्यानुजान्समस्तांश्च पुरं देशं च तस्य वै
त्वां च कार्यं च तत्सर्वं श्रोतुमिच्छामि तत्वतः। विस्तरेण मम ब्रूहि सर्वानेतान्पृथक्पृथक्
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना। कृताञ्जलिरुवाचाथ समर्थमिदमुत्तरम्
सोमवंशोद्भवो राजा पाण्डुर्नाम महाबलः। पाण्डोश्च पुत्राः पञ्चासञ्छक्रतुल्यपराक्रमाः
तेषां ज्येष्ठस्तु नाम्ना वै युधिष्ठिर इति श्रुतः। अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत्। गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः। भ्रातृभिः सह राजेन्द्र शक्रप्रस्थेऽन्वमोदत
गङ्गायमुनयोर्मध्ये ते उभे नगरोत्तमे। नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशास्ति नः
तस्यानुजो महाबाहुर्भीमसेन इति श्रुतः। महातेजा महाकीर्तिः शक्रतुल्यपराक्रमः
दशनागसहस्राणां बले तुल्यः स पाण्डवः। तस्यानुजोऽर्जुनो नाम महाबलपराक्रमः
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः। कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले
जामदग्न्यसमश्चास्त्रे सङ्ख्ये रामसमोऽर्जुनः। रूपे शक्रसमः पार्थस्तेजसा भास्करोपमः
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः। मानुषैश्च समस्तैस्तु अजेयः फल्गुनो रणे