स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ। लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम्
प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम्। समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः
सहदेवस्ततो राजा मन्त्रिभिः सह भारत। सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः। चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत। अतिदीर्घो महाबाहु सर्वाभरणभूषितः
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः। विचित्रहारकेयूरः किङ्किणीमणिभूषितः
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः। ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली। बलेन स ययौ तत्र चालयन्निव मेदिनीम्
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम्। भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा
आससाद च माद्रेयं पुलस्त्यं रावणो यथा। अभिवाद्य ततो राजन्सहदेवं घटोत्कचः
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत्। तं परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवः
तं मेरुशिखराकारमागतं पाण्डुनन्दनः। पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात्। ।। तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम्
रत्नानि राजसूयार्थं विविधानि बहूनि च। उपादाय च सर्वाणि प्रत्यागच्छ महाबल
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः। तथेत्युक्त्वा महाराज प्रतस्ये दक्षिणां दिशम्
प्रययौ दक्षिणं कृत्वा सहदेवं घटोत्कचः। लङ्कामभिमुको राजन्समुद्रं स व्यलोकयत्
कूर्मग्राहझषाकीर्णं मीननक्रैस्तथाऽऽकुलम्। शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम्
स दृष्ट्वा रामसेतुं च चिन्तयन्रामविक्रमम्।। गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम्। प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम्
प्रासादैर्बहुसाहस्रैः श्वेतरक्तैश्च सङ्कुलाम्। दिव्यदुन्दुभिनिर्ह्रादामुद्यानवनशोभिताम्
सर्वकालफलैर्वृक्षैः पुष्पितैरुपशोभिताम्। पुष्पगन्धैश्च सङ्कीर्णां रमणीयमहारथाम्
नानारत्नैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्। विवेश स पुरीं लङ्कां राक्षसैश्च निषेविताम्
ददर्श स पुरीं लङ्कां राक्षसैश्च निषेविताम्।। नानावेषधरान्दक्षान्नारीश्च प्रियदर्शनाः
दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः। मदरक्तान्तनयनाः पीनश्रोणिपयोधराः
भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः। आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम्
bकुरूणामृष्टबो राजा पाण्डुर्नाम महाबलः।। aकनीयांस्तस्य दायादः सहदेव इति श्रुतः। bतेनाहं प्रेषितो दूतः करार्थं कौरवस्य च
द्रष्टुमिच्छामि राजेनद्रं त्वं क्षिप्रं मां निवेदय
तथेत्युक्त्वा विवेशाथ भवनं स निवेदकः। प्राञ्जलिः स्रवमाचष्ट स्रवां दूतगिरं तदा
द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः। उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम्
एवमुक्तस्तु राज्ञा स धर्मज्ञेन महात्मना। अथनिष्कम्य सम्भ्रान्तो द्वार्स्थोहैडिम्बमब्रवीत्