नष्टचन्द्रार्ककिरणमम्बरं समपद्यत। नागानामुत्तमो हर्षस्तथा वर्षति वासवे
आपूर्यत मही चापि सलिलेन समन्ततः। रसातलमनुप्राप्तं शीतलं विमलं जलम्
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः। रामणीयकमागच्छन्मात्रा सह भुजंगमाः
संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा। सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै
तं द्वीपं मकरावासं विहितं विश्वकर्मणा। तत्र ते लवणं घोरं ददृशुः पूर्वमागताः
सुपर्णसहिताः सर्पाः काननं च मनोरमम्। सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिजादितम्
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्। भवनैरावृतं रम्यैस्तथा पद्माकरैरपि
प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम्। दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि। शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः। किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्। मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम्
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः। नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्। त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर
स विचिन्त्याब्रवीत्पक्षी मातरं विनतो तदा। किं कारणं मया मातः कर्तव्यं सर्पभाषितम्
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम। पणं वितथमास्थाय सर्पैरुपधिना कृतम्
तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः। उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्। दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः
श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा। ततो दास्याद्विप्रमोक्षो भविता तव खेचर
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। `भवनानि निषादानां तत्र सन्ति द्विजोत्तम
पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम्'। निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन। अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः। गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः। स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन। न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः। तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः। यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा