दर्शने सहदेवस्य न च तृप्ता नराः परे। गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः
ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन्। गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून्
शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान्। ततो देशं समासाद्य श्वशुरस्य महीपतेः
प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा। प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः
भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा। चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा
आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः। प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु
पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह। मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान्
तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप। भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने
पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम्। स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा
ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ। अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम्
स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ। लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम्
प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम्। समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः
सहदेवस्ततो राजा मन्त्रिभिः सह भारत। सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः। चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत। अतिदीर्घो महाबाहु सर्वाभरणभूषितः
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः। विचित्रहारकेयूरः किङ्किणीमणिभूषितः
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः। ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली। बलेन स ययौ तत्र चालयन्निव मेदिनीम्
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम्। भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा
आससाद च माद्रेयं पुलस्त्यं रावणो यथा। अभिवाद्य ततो राजन्सहदेवं घटोत्कचः
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत्। तं परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवः
तं मेरुशिखराकारमागतं पाण्डुनन्दनः। पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात्। ।। तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम्
रत्नानि राजसूयार्थं विविधानि बहूनि च। उपादाय च सर्वाणि प्रत्यागच्छ महाबल
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः। तथेत्युक्त्वा महाराज प्रतस्ये दक्षिणां दिशम्
प्रययौ दक्षिणं कृत्वा सहदेवं घटोत्कचः। लङ्कामभिमुको राजन्समुद्रं स व्यलोकयत्
कूर्मग्राहझषाकीर्णं मीननक्रैस्तथाऽऽकुलम्। शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम्
स दृष्ट्वा रामसेतुं च चिन्तयन्रामविक्रमम्।। गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम्। प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम्
प्रासादैर्बहुसाहस्रैः श्वेतरक्तैश्च सङ्कुलाम्। दिव्यदुन्दुभिनिर्ह्रादामुद्यानवनशोभिताम्