क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः। कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम्
कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा। अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा
सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह। दक्षिणं तीरभासाद्य गमनायोपचक्रमे
आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः। दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः
द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः। गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः
सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम्। दर्शनीयतमं लोके नेत्रैरनिमिषैरिव
आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः। महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै
रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः। गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम्
सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा। विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम्
दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम्। ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ
दर्शने सहदेवस्य न च तृप्ता नराः परे। गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः
ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन्। गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून्
शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान्। ततो देशं समासाद्य श्वशुरस्य महीपतेः
प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा। प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः
भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा। चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा
आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः। प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु
पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह। मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान्
तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप। भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने
पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम्। स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा
ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ। अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम्
स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ। लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम्
प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम्। समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः
सहदेवस्ततो राजा मन्त्रिभिः सह भारत। सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः। चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत। अतिदीर्घो महाबाहु सर्वाभरणभूषितः
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः। विचित्रहारकेयूरः किङ्किणीमणिभूषितः
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः। ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली। बलेन स ययौ तत्र चालयन्निव मेदिनीम्
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम्। भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा
आससाद च माद्रेयं पुलस्त्यं रावणो यथा। अभिवाद्य ततो राजन्सहदेवं घटोत्कचः