निजग्राह महाबाहुस्तरसा पौरवेश्वरम्। आकृतिं कौशिकाचार्यं यत्ने महता ततः
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा। सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे
राज्ञे भोजकटस्थाय महामात्राय धीमते। भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै
च चास्य प्रतिजग्राह ससुतः शासनं तदा। प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः। ततः शूर्पारकं चैव तालाकटमथापि च
वशे चक्रे महातेजा दण्डकांश्च महाबलः। सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्
निषादान्पुरुषादांश्च कर्णप्रावरणानपि। ये च कालमुखा नाम नरराक्षसयोनयः
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा। द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः। एकपादांश्च पुरुषान्केरलान्वनवासिनः
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम्। दूतैरेव वशे चक्रे करं चैनानदापयत्
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः। अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्
आटवीं च पुरीं रम्यां यवनानां पुरं तथा। दूतैरेव वशे चक्रे करं चैनानदापयत्
तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च। दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः। चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत। तं मेरुशिखराकारमागतं पाण्डुनन्दनः
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः। आगम्यतामिति प्राह धर्मराजस्य शसनाः
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः। घटोत्कचं महात्मानं राक्षसं घोरदर्शनम्
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने'। बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्। तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः
ततः सम्प्रेषयामास रत्नानि विविधानि च। चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च
इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम। लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम्
कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे
कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे। दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ
ददर्श पुण्यतोयां वै कावेरीं सरितां वराम्। नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम्
साललोध्रार्जुनैल्वैर्जम्बूशाल्मलकिंशुकैः। कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम्
न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि। शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम्
बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम्। चूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम्
चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः। समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः
एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः। आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम्
शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः। क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम्