यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन। एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत्। प्रमुखे तस्य सैन्यस्य भीतोद्विग्रस्य भारत
न चैनमत्यगाद्वह्निरुवाच महोदधिः। तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम्
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः। उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च। मया तु रक्षितव्या पूरियं भरतसत्तम
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति। ईप्सितं तु करिष्यामि मनसस्तव पाण्डव
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः। पूजयामास माद्रेयटः पावकं भरतर्षभ
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा। पावकस्याज्ञया चैनमर्चयामास पार्थिवः
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्। प्रतिगृह्य च तां पूजां करे च विनिवेश्य च
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम्। त्रैपुरं स वशे कृत्वा राजानममितौजसम्
निजग्राह महाबाहुस्तरसा पौरवेश्वरम्। आकृतिं कौशिकाचार्यं यत्ने महता ततः
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा। सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे
राज्ञे भोजकटस्थाय महामात्राय धीमते। भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै
च चास्य प्रतिजग्राह ससुतः शासनं तदा। प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः। ततः शूर्पारकं चैव तालाकटमथापि च
वशे चक्रे महातेजा दण्डकांश्च महाबलः। सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्
निषादान्पुरुषादांश्च कर्णप्रावरणानपि। ये च कालमुखा नाम नरराक्षसयोनयः
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा। द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः। एकपादांश्च पुरुषान्केरलान्वनवासिनः
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम्। दूतैरेव वशे चक्रे करं चैनानदापयत्
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः। अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्
आटवीं च पुरीं रम्यां यवनानां पुरं तथा। दूतैरेव वशे चक्रे करं चैनानदापयत्
तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च। दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः। चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत। तं मेरुशिखराकारमागतं पाण्डुनन्दनः
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः। आगम्यतामिति प्राह धर्मराजस्य शसनाः
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः। घटोत्कचं महात्मानं राक्षसं घोरदर्शनम्
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने'। बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्। तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः
ततः सम्प्रेषयामास रत्नानि विविधानि च। चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च