ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ।। तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान्।। ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम्
सैन्यक्षयकरं चैव प्राणानां संशयावहम्। चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः
ततो रथा हया नागाः पुरुषाः कवचानि च। प्रतीप्तानि व्यदृश्यन्त सहदेवबले तदा
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः। नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि। सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः। श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना। साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः।। यावच्चारुपुटौष्ठेन वायुना न विधूयते
ततः स भगवानग्निश्चकमे तां सुदर्शनाम्। नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्
ततो ब्रह्मणरूपेण रममाणो यदृच्छया।। चकमे तां वरारोहां कन्यामुत्पललोचनाम्।। तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः। तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम्
ततः कालेन तां कन्यां तथैव हि तदा नृपः। प्रददौ विप्ररूपाय वह्रये शिरसा नतः
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा। चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः। अभयं च स जग्राह स्वसैन्ये वै महीपतिः
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः। जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना
स्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह। बभूवुरनतिग्राह्य योषितश्छन्दतः किल
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे। रिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ
र्जयन्ति च राजानस्तत्पुरं भरतर्षभ। भयादग्नेर्महाराज तदाप्रभृति सर्वदा
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्। परीतमग्निना राजन्नाकम्पत यथाऽचलः। उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते। मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक
पावनात्पावकश्चासि वहनाद्धव्यवाहनः। वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो। स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः। कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत्
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे। पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे
अपां गर्भ महासत्व जातवेदः सुरेश्वर। देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि। नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम्
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः। सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया। तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम्। ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते