त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्। त्वं सर्वममृतं देव त्वं सोमः परमार्चितः
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः। शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा। संवत्सरर्तवो मासा रजन्यश्च दिनानि च
त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा। मदोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः
महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः। अभिष्टुतः पिबसि च सोममध्वरे कषट्कृतान्यपि च हवींषि भूतये
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः। नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्
मेघानाज्ञापयामास वर्षध्वममृतं शुभम्। ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि। संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः। संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः
मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः। तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत। नागानामुत्तमो हर्षस्तथा वर्षति वासवे
आपूर्यत मही चापि सलिलेन समन्ततः। रसातलमनुप्राप्तं शीतलं विमलं जलम्
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः। रामणीयकमागच्छन्मात्रा सह भुजंगमाः
संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा। सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै
तं द्वीपं मकरावासं विहितं विश्वकर्मणा। तत्र ते लवणं घोरं ददृशुः पूर्वमागताः
सुपर्णसहिताः सर्पाः काननं च मनोरमम्। सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिजादितम्
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्। भवनैरावृतं रम्यैस्तथा पद्माकरैरपि
प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम्। दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि। शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः। किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्। मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम्
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः। नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्। त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर
स विचिन्त्याब्रवीत्पक्षी मातरं विनतो तदा। किं कारणं मया मातः कर्तव्यं सर्पभाषितम्
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम। पणं वितथमास्थाय सर्पैरुपधिना कृतम्
तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः। उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्। दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः
श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा। ततो दास्याद्विप्रमोक्षो भविता तव खेचर
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्