उभौ बलभृतौ वीरावुमौ तीव्रपराक्रमौ। निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्
समुद्रसेन निर्जित्य चन्द्रसेनं च पार्थिवम्। ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा
सुह्यानामधिपं चैव ये च सागरवासिनः। सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः
एवं बहुविधान्देशान्विजित्य पवनात्मजः। सु तेभ्य उपादाय लौहित्यमगद्बली
स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः। करमाहारयामास रत्नानि विविधानि च
चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्। काञ्चनं रजतं चैव विद्रुमं च महाधनम्
ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा। अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम्
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः। निवेदयामास तदा धर्मराजाय तद्धनम्
तथैव सहदेवोऽपि धर्मराजेन पूजितः। महत्या सेनया राजन्प्रययौ दक्षिणां दिशम्
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः। मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली
अधिराजाधिपं चैव दन्तवक्रं महाबलम्। जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत्
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्। तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान्
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा। तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम्
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्। प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम्
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्। ददर्श वासुदेवेन शेषितं पूर्ववैरिणा
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत। स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ
सेकानपरसेकांश्च रत्नानि विविधानि च।। ततस्तेनैव सहितो नर्मदामभितो ययौ
भगदत्तं महाबाहुं क्षत्रियं नरकात्मजम्। अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ। जिगाय समरे वीरावाश्विनेयः प्रतापवान्
ततो रत्नान्युपादाय पुरं भोजकटं ययौ। तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः। कोसलाधिपतिं चैव तथा वेणातटाधिपम्
कान्तारकांश्च समर तथा प्राकोटकान्नृपान्। नाटकेयांश्च समरे तथा हेरम्बकान्युधि
मारुधं च विनिर्जित्य रम्यग्राममथो बलात्। नाचीनानर्बुकांश्चैव राजानश्च महाबलः
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः। नाताधिपं च नृपतिं वशे चक्रे महाबलः
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः। युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्। गुहामासादयामास किष्किन्धां लोकविश्रुताम्
पुरा वानरराजेन वालिना चाभिरक्षिताम्। ततः कोसलराजस्य रामस्यैवानुगेन च। सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च। युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ। ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः। अविघ्नमस्त कार्याय धर्मराजाय धीमते