ततो हिमवतः पार्श्वं समभ्येत्य जलोद्भवम्। सर्वमल्पेन कालेन देशं चक्रे वशं बली
एवं बहुविधान्देशान्विजिग्ये भरतर्षभः। भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम्
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः। स काशिराजं समरे सुबाहुमनिवर्तिनम्
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः। ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्
युध्यमानं बालत्सङ्ख्ये विजिग्ये पाण्डवर्षभः। ततो मत्स्यान्महातेजा मलदांश्च महाबलान्
अनघानभयांश्चैव पशुभूमिं च सर्वशः। निवृत्य च महाबाहुर्मदधारं महीधरम्
सोमधेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः। वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्
भर्गाणामधिपं चैव निषादाधिपतिं तथा। विजिग्ये भूमिपालांश्च ममिमत्प्रमुखान्बहून्
ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम्। तरसैवाजयद्भीमो नातितीव्रेण कर्मणा
शर्मकान्वर्मकांश्चैव व्यजयत्सान्त्वपूर्वकम्। वैदेहकं च राजानं जनकं जगतीपतिम्
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा। शकांश्च बर्बराश्चैव अजयच्छद्मपूर्वकम्
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्। किरातानामधिपतीनजयत्सप्त पाण्डवः
ततः सुह्यान्प्रसुह्यांश्च सपक्षानतिवीर्यवान्। विजित्य युधि कौन्तेयो मागधानभ्यधाद्बली
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्। तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत्
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह। तैरेव सहितैः सर्वैः कर्णमब्यद्रवद्बली
स कम्पयन्निव महीं बलेन चतुङ्गिणा। युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत। ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः
अथ मोदागिरौ चैव राजानं बलवत्तरम्। पाण्डवो बाहुवीर्येण निजघान महामृधे
ततः पुण्ड्राधिपं वीरं वासुदेवं समाययौ। `इदानीं वृष्णिवीरेण न योत्स्यामीति पौण्ड्रकः
कृष्णस्य भुजसंत्रासात्करमाशु ददौ नृपः'। कौशिकीकच्छनिलयं राजानं च महौजसम्
उभौ बलभृतौ वीरावुमौ तीव्रपराक्रमौ। निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्
समुद्रसेन निर्जित्य चन्द्रसेनं च पार्थिवम्। ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा
सुह्यानामधिपं चैव ये च सागरवासिनः। सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः
एवं बहुविधान्देशान्विजित्य पवनात्मजः। सु तेभ्य उपादाय लौहित्यमगद्बली
स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः। करमाहारयामास रत्नानि विविधानि च
चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्। काञ्चनं रजतं चैव विद्रुमं च महाधनम्
ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा। अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम्
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः। निवेदयामास तदा धर्मराजाय तद्धनम्
तथैव सहदेवोऽपि धर्मराजेन पूजितः। महत्या सेनया राजन्प्रययौ दक्षिणां दिशम्
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः। मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली