न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते। उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन। न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि। तत्प्रब्रूहि करिष्यामो वचनात्तव भारत
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव। पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः। युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम्
नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः'। ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्। सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु। धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि। मयूरसदृशान्यान्सर्वाननिलरंहसः
वृतः सुमहता राजन्बलेन चतुरङ्गिणा। आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम्। न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्। धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति।। 5
महता बलचक्रेण परराष्ट्रावमर्दिना। हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः। स गत्वा नरशार्दूलः पञ्चालानां पुरं महत्
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः। `किञ्चित्करं समादाय विदेहानां पुरं ययौ'।। ततः स गण्डकाञ्शूरो विदेहान्भरतर्षभः
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः। तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम्। कृतवान्भीमसेनेम महद्युद्धं निरायुधम्
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः। अधिसेनापतिं चक्रे सुधर्माणं महाबलम्
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः। सैन्येन महता राजन्कम्पयन्निव मेदिनीम्
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम्। जिगाय समरे वीरो बलेन बलिनां वरः
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा। पूर्वदेशं महावीर्यं विजिग्ये कुरनन्दनः
ततो दक्षिणमागम्य पुलिन्दनगरं महत्। सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः। शिशुपालं महावीर्यमभ्यगाज्जनमेजय
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्। उपनिष्कम्य नगरात्प्रत्यगृह्णात्परन्तप
तौ समेत्य महाराज कुरुचेदिवृषौ तदा। उभयोरात्मकुलयोः कौशलं पर्यपृच्छताम्
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते। उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्। स च तं प्रतिगृह्यैव तथा चक्रे नराधिपः
ततो भीमस्तत्र राजन्निषित्वा त्रिदशाः क्षपाः। सत्कृतः शिशुपालेन ययौ सबलवाहनः
ततः कुमारविषये श्रेणिमन्तमथाजयत्। कोसलाधिपतिं चैव बृहद्बलमरिन्दमः
अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम्। अजयत्णण्डवश्रेष्ठो नातितीव्रेण कर्मणा
ततो गोपालकक्षं च सोत्तरानपि कोसलान्। मल्लानामधिपं चैव पार्थिवं चाजयत्प्रभुः