तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि। दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्वितः
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम्। अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च
मणिहेमप्रबालानि शस्त्राण्याभरणानि च। एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः। उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन्। तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम्
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून्। याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जय
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः। इयेष जेतुं तं देशं पाकशासनन्दनः
तत एनं महावीर्यं महाकाया महाबलाः। द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन। उपावर्तस्व कल्याण पर्याप्तमिदमच्युत
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः। प्रीयामहे त्वया वीर पर्याप्तो विजयस्तवै
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते। उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन। न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि। तत्प्रब्रूहि करिष्यामो वचनात्तव भारत
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव। पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः। युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम्
नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः'। ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्। सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु। धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि। मयूरसदृशान्यान्सर्वाननिलरंहसः
वृतः सुमहता राजन्बलेन चतुरङ्गिणा। आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम्। न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्। धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति।। 5
महता बलचक्रेण परराष्ट्रावमर्दिना। हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः। स गत्वा नरशार्दूलः पञ्चालानां पुरं महत्
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः। `किञ्चित्करं समादाय विदेहानां पुरं ययौ'।। ततः स गण्डकाञ्शूरो विदेहान्भरतर्षभः
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः। तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम्। कृतवान्भीमसेनेम महद्युद्धं निरायुधम्
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः। अधिसेनापतिं चक्रे सुधर्माणं महाबलम्
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः। सैन्येन महता राजन्कम्पयन्निव मेदिनीम्
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम्। जिगाय समरे वीरो बलेन बलिनां वरः
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा। पूर्वदेशं महावीर्यं विजिग्ये कुरनन्दनः