हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम्। हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम्
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः। क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम्। विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम्
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम्। तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह
दृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च। दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान्
तान्नदीसलिलाहारान्सदारानमरोपमान्। नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान्
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः। दिव्यजम्बूफलं हैमं भूषणानि च पेशलम्
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम्। नागानां रक्षितं देशमजयश्च पुनस्ततः
ततो गन्वा महाराज वारुणीं पाकशासनिः। गन्धमादनमासाद्य ततस्तानजयत्प्रभुः
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः। केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम्
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः। तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः। पुनश्च परिवृत्याथ माध्यं देशमिलावृतम्
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः। मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
ये ते कीचकवेणूनां छायां रम्यामुपासते। कषान्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान्
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान्। एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ। तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम्। तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान्
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च। आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः। ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम्
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः। तं देशमथ जित्वा स करे च विनिवेश्य च
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम्। तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान्। अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः
गन्धर्वरक्षितं देशमजयत्सगणं तदा। तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः
वर्षं हिरण्वतं नाम विवेशाथ महीपते। स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा। महापथेषु राजैन्द्र सर्वतो यान्तमर्जुनम्
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया। ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम्
तं कलापधरं शूरं सरथं सधनुः करम्। सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम्
सुकुमारं महासत्वं तेजोराशिमनुत्तमम्। शक्रोपमममित्रघ्नं परवारणवारणम्
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे। अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः। इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम्