तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयटः। वशे चक्रे स रत्नानि लेभे च सुबहूनि च
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः। अथ राजन्नतिक्रम्य निषधं शैलमायतम्
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम्। तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान्
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः। सदनानि च शुभ्राणि नारीश्चाप्सरसंनिभाः
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा। जित्वा च तान्महाभागान्करे च विनिवेश्य च
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह। उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत्। तं काञ्चनमयं दिव्यं चतुर्वणं दुरासदम्
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम्। ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः। काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम्
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः। व्यालैराचरितं धोरैर्दिव्यौषधिविदीपितम्
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम्। अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्
नानाविहगसङ्घैश्च नादितं सुमनोहरैः। तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा
मेरोरिलावृतं दिव्यं सर्वतः परिमण्डितम्। मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः। आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम्। तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ। प्रतीमानभवद्राजन्सर्वतः स विलोकयन्
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः। रत्नानि बहुसाहस्रं दत्तान्याभरणानि च
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा। आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः
अथादाय बहून्रत्नान्गमनाययोपचक्रमे। मेरुं प्रदक्षिणीकृत्य प्रवतप्रवरं प्रभुः
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन्। स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम्
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम्। हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम्
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः। क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम्। विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम्
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम्। तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह
दृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च। दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान्
तान्नदीसलिलाहारान्सदारानमरोपमान्। नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान्
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः। दिव्यजम्बूफलं हैमं भूषणानि च पेशलम्
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम्। नागानां रक्षितं देशमजयश्च पुनस्ततः
ततो गन्वा महाराज वारुणीं पाकशासनिः। गन्धमादनमासाद्य ततस्तानजयत्प्रभुः
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः। केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम्