सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः। उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ। सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्
मोदापुरं वामवेदं सुदामानं सुसङ्कुलम्। उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्। किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति। बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्।। अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्। जिगाय सेनया राजन्पुरं पौरवरक्षितम्
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः। गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः। व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा। क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः। उरगावासिनं रम्यं रोचमानं रणेऽजयत्
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्। प्राधमद्बलमास्थाय पाकशासनिराहवे
ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः। सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः। महता परिमर्देन वशे चक्रे दुरासदान्
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः। दरदान्सहकाम्भोजैरजयत्पाकशासनिः
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः। निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः
लोहान्परमकाम्भोजानृषिकानुत्तरानपि। सहितांस्तान्महाराज व्यजयत्पाकशासनिः
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः। तारकामयसङ्काशः परस्त्वृषिकपार्थयोः
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि। शुकोदरसमांस्तत्र हयानष्टौ समानयत्
मयूरसदृशानन्यानुत्तरानपरानपि। जवनानाशुगांश्चैव करार्थं समुपानयत्
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कृटम्। श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्। देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम्
महता सन्निपातेन क्षत्रियान्तकरेण ह। अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत्
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्। पाकशासनिरव्यग्रः सहसैन्यः समासदत्
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्। ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः
सरो मानसमासाद्य हाटकानभितः प्रभुः। गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान्। लेभे स करसमत्यन्तं गन्धर्वनगरात्तदा
हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा। तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः
हरिवर्षं विवेशाथ सैन्येन महता वृतः। तत्र पार्थो ददर्शाथ बहूनिह मनोरमान्
नगरान्सवनांश्चैव नदीश्च विमलोदकाः। पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः