तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्। भवान्पितृसखश्चैव प्रीयमाणो मयापि च। ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः। सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते
एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः। अनेनैव कृतं सर्वं भविष्यत्यनुजानता
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः। प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्। तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः। तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः
तैरेव सहितः सर्वैरनुरज्य च तान्नुपान्। उलूकवासिनं राजन्बृहन्तमुपजग्मिवान्
मृदङ्गवरनादेन रथनेमिस्वनेन च। हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा। निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम्
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः। न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्
सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः। उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ। सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्
मोदापुरं वामवेदं सुदामानं सुसङ्कुलम्। उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्। किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति। बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्।। अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्। जिगाय सेनया राजन्पुरं पौरवरक्षितम्
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः। गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः। व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा। क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः। उरगावासिनं रम्यं रोचमानं रणेऽजयत्
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्। प्राधमद्बलमास्थाय पाकशासनिराहवे
ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः। सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः। महता परिमर्देन वशे चक्रे दुरासदान्
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः। दरदान्सहकाम्भोजैरजयत्पाकशासनिः
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः। निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः
लोहान्परमकाम्भोजानृषिकानुत्तरानपि। सहितांस्तान्महाराज व्यजयत्पाकशासनिः
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः। तारकामयसङ्काशः परस्त्वृषिकपार्थयोः
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि। शुकोदरसमांस्तत्र हयानष्टौ समानयत्
मयूरसदृशानन्यानुत्तरानपरानपि। जवनानाशुगांश्चैव करार्थं समुपानयत्