तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति। अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत्
तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत्। अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप
तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे। प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः
तद्भग्रं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा। वायुनेव घनानीकं तूलीभूतं ययौ दिशः
तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा। ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः
पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम्। धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा
तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति। स साल्वपुरमासाद्य साल्वराजं धनञ्जयटः
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः। तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम्
कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः। तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम्
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम्। एतेन सहितो राजन्सव्यसाची परन्तपः
विजिग्ये शाकलद्वीपे प्रतिविन्ध्यं च पार्थिवम्। कलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः
अर्जुनस्य च सैन्यस्थैर्विग्रहस्तुमुलोऽभवत्। तान्सर्वानजयत्पार्तो धर्मराजप्रियेप्सया
तैरेव सहितः सर्वैः प्रग्ज्योतिषमुपाद्रवत्
तत्र राजा महानासीद्भगदत्तो विशाम्पते। तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्। अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम्। प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्रमम्
उपपन्नं महाबाहो त्वयि कौरवनन्दन। पाकशासनदायादे वीर्यमाहवशोभिनि
अहं सखा महेन्द्रस्य शक्रादनवरो रणे। न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि
त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते। यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः। धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्। भवान्पितृसखश्चैव प्रीयमाणो मयापि च। ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः। सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते
एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः। अनेनैव कृतं सर्वं भविष्यत्यनुजानता
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः। प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्। तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः। तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः
तैरेव सहितः सर्वैरनुरज्य च तान्नुपान्। उलूकवासिनं राजन्बृहन्तमुपजग्मिवान्
मृदङ्गवरनादेन रथनेमिस्वनेन च। हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा। निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम्
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः। न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्