ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ। प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्
ततो गते भगवति कृष्णे देवकिनन्दने। जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा
संवर्धितं यशो भूयः कर्मणा तेन भारत। द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्। तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्
ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः। धर्म धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः। संविवर्तयिषुः कामं पावकात्पाकशासनिः
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम्। करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम
विजयाय प्रयास्यामि दिशं धनदपालिताम्। तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः स्निग्धगम्भीरनादिन्यां तं गिरा प्रत्यभाषत
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ। दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि। इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा। तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः। दिशं धनपतेरिष्टामजयत्पाकशासनिः
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्। प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित्
खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः। आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते। यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा
अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः। महत्त्वे राजशब्दस्य मनश्चक्रे महामनाः
तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति। अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत्
तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत्। अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप
तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे। प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः
तद्भग्रं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा। वायुनेव घनानीकं तूलीभूतं ययौ दिशः
तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा। ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः
पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम्। धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा
तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति। स साल्वपुरमासाद्य साल्वराजं धनञ्जयटः
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः। तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम्
कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः। तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम्
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम्। एतेन सहितो राजन्सव्यसाची परन्तपः