भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा। रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः। रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः। समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः। राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ। पुनः स्वनगरं प्राप्तावक्षताविति भारत
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः। भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्। अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह
हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत। त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्। राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन। पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम्
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः। प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः
यथावयः समागम्य भ्रातृभिः सह पाण्डवः। सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः। जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः। पाण्डवैर्घातयामास जरासन्धमरिं तदा
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः। धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा। धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति
पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः। हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः। जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्
तेनैव रथमुख्येन मनसस्तुल्यगामिना। धर्मराजविसृष्टेन दिव्येनानादयन्दिशः
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ। प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्
ततो गते भगवति कृष्णे देवकिनन्दने। जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा
संवर्धितं यशो भूयः कर्मणा तेन भारत। द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्। तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्
ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः। धर्म धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः। संविवर्तयिषुः कामं पावकात्पाकशासनिः
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम्। करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम
विजयाय प्रयास्यामि दिशं धनदपालिताम्। तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते