समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम्। उदकं तस्य चक्रेऽथ सहदेवः सहानुजः
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः। पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च। दीयतां धर्मराजाय यथा वा मन्यते भवान्
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा। अभ्यषिञ्चत राजानं सहदेवं जनार्दनः
मागधानां महीपालं जरासन्धात्मजं तदा। आददे च महार्हाणि रत्नानि पुरुषोत्तमः
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः। विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम्
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः। यथावयः समागम्य विससर्ज नराधिपान्
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः। आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः। एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा। रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः। रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः। समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः। राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ। पुनः स्वनगरं प्राप्तावक्षताविति भारत
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः। भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्। अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह
हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत। त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्। राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन। पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम्
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः। प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः
यथावयः समागम्य भ्रातृभिः सह पाण्डवः। सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः। जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः। पाण्डवैर्घातयामास जरासन्धमरिं तदा
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः। धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा। धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति
पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः। हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः। जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्
तेनैव रथमुख्येन मनसस्तुल्यगामिना। धर्मराजविसृष्टेन दिव्येनानादयन्दिशः