जरासन्धात्मजश्चैव सहदेवो महामनाः। निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः। सहदेवो नृणां देवं वासुदेवमुपस्थितः
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा। आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन। तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो। पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात्। निर्भयो विचरिष्यामि यथाकामं यथासुखम्
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष। प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन्। तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत। चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा
कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि। घृतधाराशतैश्चैव सुमनोभिश्च भारत
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम्। उदकं तस्य चक्रेऽथ सहदेवः सहानुजः
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः। पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च। दीयतां धर्मराजाय यथा वा मन्यते भवान्
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा। अभ्यषिञ्चत राजानं सहदेवं जनार्दनः
मागधानां महीपालं जरासन्धात्मजं तदा। आददे च महार्हाणि रत्नानि पुरुषोत्तमः
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः। विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम्
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः। यथावयः समागम्य विससर्ज नराधिपान्
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः। आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः। एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा। रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः। रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः। समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः। राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ। पुनः स्वनगरं प्राप्तावक्षताविति भारत
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः। भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्। अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह
हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत। त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्। राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन। पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम