जरासन्धरथं कृष्णो योजयित्वा पताकिनम्। आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः। राजानं चक्ररासाद्य मोक्षिता महतो भयात्
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः। रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः। अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः। शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये। रथेन तेन वै कृष्ण उपारुह्य ययौ तदा
एवमेतौ महाबाहू तदा दुष्करकारिणौ। कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः। वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः
तप्तचामीकराभेण किङ्किणीजालमालिना। मेघनिर्घोषनादेन जैत्रेणामित्रघातिना
येन शक्रो दानवानां जघान नवतीर्नव। तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा। रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे। अधिष्ठितः स शुशुभे कृष्णेनातीव भारत
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः। योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्। क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः। तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ। आदित्य इव मध्याह्ने सहस्रकिरणावृतः
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते। दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम्। निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः। बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम्
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः। गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा। ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्। पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने। भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्। राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे। दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्। कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम्
तानुवाच हृम्पीकेशः समाश्चास्य महामनाः। यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम। तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम्
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः। कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया