भीमसेनस्य नादेन जरासन्धस्य चैव ह। किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात्। `ततस्तु भगवान्कृष्णो जरासन्धजिघांसया
भीमसेनं समालोक्य नलं जग्राह पाणिना। द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः। द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च
पुनः सन्धाय तु तदा जरान्धः प्रतापवान्। भीमेन च समागम्य बाहुयुद्धं चकार ह
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम्। सर्वलोकक्षयकरं सर्वभूतभयावहम्
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः। व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम्। द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः। शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्। रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः
जरासन्धरथं कृष्णो योजयित्वा पताकिनम्। आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः। राजानं चक्ररासाद्य मोक्षिता महतो भयात्
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः। रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः। अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः। शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये। रथेन तेन वै कृष्ण उपारुह्य ययौ तदा
एवमेतौ महाबाहू तदा दुष्करकारिणौ। कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः। वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः
तप्तचामीकराभेण किङ्किणीजालमालिना। मेघनिर्घोषनादेन जैत्रेणामित्रघातिना
येन शक्रो दानवानां जघान नवतीर्नव। तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा। रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे। अधिष्ठितः स शुशुभे कृष्णेनातीव भारत
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः। योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्। क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः। तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ। आदित्य इव मध्याह्ने सहस्रकिरणावृतः
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते। दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम्। निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः। बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम्
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः। गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः