अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। असौ हि राशिः सुमहान्समिद्धस्तव सर्पति
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। गरुडो बलवानेष मम तुल्यश्च तेजसा
जातः परमतेजस्वी विनतानन्दवर्धनः। तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्
नागक्षयकरश्चै काश्यपेयो महाबलः। देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः। त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः
त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा। त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः। त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्
ह्यनागतं चोपगतं च सर्वम्
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे। समाक्षिपन्भानुमतः प्रभां मुहु- स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्
दिवाकरः परिकुपितो यथा दहे- त्प्रजास्तथा दहसि हुताशनप्रभ। भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्। तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्
परावरं वरदमजय्यविक्रमं तवौजस सर्वमिदं प्रतापितम्। जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते। ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः। महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी
शिवश्च नो भव भगवन्सुखावहः
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा। तेजसः प्रतिसंहारमात्मनः स चकार ह
ततः कामगमः पक्षी महावीर्यो महाबलः। मातुरन्तिकमागच्छत्परं पारं महोदधेः
यत्र सा विनता तस्मिन्पणितेन पराजिता। अतीव दुःखसंतप्ता दासीभावमुपागता
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ। काले चाहूय वचनं कद्रूरिदमभाषत
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्। समुद्रकुक्षावेकान्ते तत्र मां विनते नय
ततः सुपर्णमाता तामवहत्सर्पमातरम्। पन्नगान्गरुडश्चापि मातुर्वचनचोदितः
स सूर्यमभितो याति वैनतेयो विहंगमः। सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्। नमस्ते सर्वदेवेश नमस्ते बलसूदन
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते। सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव
त्वमेव परमं त्राणमस्माकममरोत्तम। ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे। त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः। स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः। त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः