व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जोतामायसैः परिघैरिव
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि। तदा तद्युद्धमभवद्दिनानि दश पञ्च च। अनाहारं दिवारात्रमविश्रान्तमवर्तत
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः। चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः। उवाच भीमकर्माणं भीमं सम्बोधयन्निव
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे। पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः। सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा। जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे
ततस्तमजितं जेतुं जरासन्दं वृकोदरः। संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्। बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्। प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्। त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः। बलं भीमं जरासन्धे दर्शयाशु तदद्य वै
तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः। इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः। बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात्
तदस्य मृत्युर्विहितस्त्वदृते न महाबल। वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम्
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम्। जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम्
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः। उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ। बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः। तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः। वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
भीमसेनस्य नादेन जरासन्धस्य चैव ह। किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात्। `ततस्तु भगवान्कृष्णो जरासन्धजिघांसया
भीमसेनं समालोक्य नलं जग्राह पाणिना। द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः। द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च
पुनः सन्धाय तु तदा जरान्धः प्रतापवान्। भीमेन च समागम्य बाहुयुद्धं चकार ह
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम्। सर्वलोकक्षयकरं सर्वभूतभयावहम्
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः। व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम्। द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः। शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्। रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः