ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः। वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्। कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः। अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम्।। गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ। उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव। नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ। सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम्
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि। आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ। अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत्
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः। सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्। एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः। ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः। निरन्तरमभूत्तत्र जनौघैरभिसंवृतम्
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा। आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव
उभौ परमसंहृष्टौ बलेन बलिनां वरौ। अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ
शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ। पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे। बलिनोः संयुगे राजन्वृत्रवासवयोरिव
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः। आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः
ततः शब्देन महता भर्त्सयन्तौ परस्परम्। पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः
ततो भीमं जरासन्धो जघानोरसि मुष्टिना। भीमोषि तं जरासन्धं वक्षस्यभिजघान ह
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जोतामायसैः परिघैरिव
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि। तदा तद्युद्धमभवद्दिनानि दश पञ्च च। अनाहारं दिवारात्रमविश्रान्तमवर्तत
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः। चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः। उवाच भीमकर्माणं भीमं सम्बोधयन्निव
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे। पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः। सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा। जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे
ततस्तमजितं जेतुं जरासन्दं वृकोदरः। संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्। बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्। प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव