ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम्। भयेन कामादपरे गणशः पर्यवारयन्
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य संमतः। वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः। अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि। शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप। अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः। स तत्र विप्रकुरुते जरासन्धः प्रतापवान्
एतद्वैरं कौरवेय जरासन्धस्य माधवे। आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान्
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान्। देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम्
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ। यथा तु स हतो राजा भीमसेनेन तच्छृणु
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः। उवाच वाग्मी राजानं जरासन्धमधोक्षजः
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः। अस्मदन्यतमेनेह सज्जीभवतु को युधि
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः। जरासन्धस्ततो राजा भीमसेनेन मागधः
धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः। अर्जुन वासुदेवं च वजर्यित्वा स मागधः
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह'। आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च। उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना। समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन्
अवमुच्य किरीटं स केशान्समनुमृज्य च। दतिष्ठज्जरासन्धो वेलातिग इवार्णवः
उवाच मतिमान्राजा भीमं भीमपराक्रमः। भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः। प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली। भीमसेनो जरासन्धमाससाद युयुत्सया
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः। वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्। कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः। अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम्।। गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ। उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव। नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ। सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम्
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि। आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ। अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत्
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः। सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः