वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः। त तेन सह तद्राज्यं धर्मतः पर्यपालयत्
प्रीतिमान्स तु दैत्येन्द्रो वसुदेवस्य देवकीम्। वाह भार्या स तदा दुहिता देवकस्य या
तस्यामुद्वाह्यमानायां रथेन जनमेजय। उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा
ततोऽन्तरिक्षे वागासीद्देवदूतस्य कस्यचित्। वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम्। अस्या यश्चाष्टमो गर्भः स ते मृत्युर्भविष्यति
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम्। इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः
सान्त्वयन्स तदा कंसं हसन्कोधवशानुगम्। राजन्ननुनयामास वसुदेवो महामतिः
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव। अकस्मादबलां नारीं हन्तासीमामनागसीम्
यच्च तेऽत्र भयं राजञ्शक्यते बाधितुं त्वया। इयं शक्या पालयितुं समयं चैव रक्षितुम्
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते। विध्वंसय तदा प्राप्तमेवं परिहृतं भवेत्
एवं स राजा कथितो वसुदेवेन भारत। तस्य तद्वचनं चके शूरसेनपतिस्तदा
ततस्तस्यां सम्बभूवुः कुमाराः सूर्यवर्चसः। जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः
अथ तस्यां समभवद्बलदेवस्तु सत्तमः। याम्यता मायया तं तु यमो राजा विशाम्पते
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत्। आकृष्य कर्षणात्सम्यक्सङ्कर्षणं इति स्मृतः
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः। पुनस्तस्यां समभवदष्टमो मधुमूदनः
तस्य गर्भस्य रक्षां तु स चक्रेऽभ्यधिकं नृपः। ततः काले रक्षणार्थं वसुदेवस्य तत्वतः।। aउग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत्
जातमात्रं वासुदेवमथाकृष्य पिता ततः। उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित्
अमृष्यमाणस्तं शब्दं देवदूतस्य पार्थिवः। वासुदेवं महात्मानमर्पयामास गोकुले
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि। अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु
विप्रचके तदा सर्वान्बल्लवान्मधुरेश्वरः। वर्धमानो महाबाहुस्तेजोबलसमन्वितः
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम्। भयेन कामादपरे गणशः पर्यवारयन्
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य संमतः। वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः। अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि। शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप। अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः। स तत्र विप्रकुरुते जरासन्धः प्रतापवान्
एतद्वैरं कौरवेय जरासन्धस्य माधवे। आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान्
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान्। देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम्
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ। यथा तु स हतो राजा भीमसेनेन तच्छृणु
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः। उवाच वाग्मी राजानं जरासन्धमधोक्षजः