दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः। श्रेयसो ह्यवमत्येह विनेशुः सबला नृपाः
युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम्। शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ। अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम्
त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध। मुच्छ वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम्
एतच्छ्रुत्वा जरासन्धः क्रुद्धो वचनमब्रवीत्
नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः। नरको नेन्द्रतपनो न केशी न च पूतना
न कालयवनो वाऽपि ये त्वया निहता युधि। त्वं तु गोपकुलोत्पन्नो जातिं वै पौर्विकीं स्मर
योऽस्मद्भयादतिक्रम्य सागरानूपमाश्रितः। जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा
सोऽधुना कत्थसे शौरे शरदीव यथा घनः। अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः
जामातुरौग्रसेनस्य त्वां निहत्याद्य माधव। चिरकाङ्क्षितो मे सङ्ग्रामस्त्वां हन्तुं समुहृद्गुणम्
दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः। क्लीबाविमौ च गोविन्द भीमसेनार्जुनावुभौ
हिंस्यासि युधि विक्रम्य सिंहः क्षुद्रमृगाविव
सर्वभूतानि वित्रेमुषे तत्रासन्समागताः
मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम। मात्यं ससुतं चाद्य घातयिष्याम्यहं रणे। न कथञ्चन जीवन्वै प्रवेक्ष्यसि पुरोत्तमम्
नाजितान्वै नरपतीनहमादद्मि काश्चन। अजितः पर्यवस्थाता कोऽत्र यो न मया जितः
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्। विक्रम्य वशमानीय कामतो यत्समाचरेत्
देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात्। अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन्
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः। द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगत्पृथगेव वा
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम्। अज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः
स तु सेनापतिं राजा सस्मार भरतर्षभ। कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते
ययोस्ते नामनी राजन्हंसेति डिबिकेति च। पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते
तं तु राजन्विभुः शौरी राजानं बलिनां वरम्। स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम्
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम्। भागमन्यस्य निर्दिष्टमवध्यं मधुर्भिर्मृधेः
नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः। ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः
किमर्थं वैरिणावास्तामुभौ तौ कृष्णमागधौ। कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः
कश्च कंसो मागधस्य यस्य हेतोः स वैरवान्। एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः
यादवानामन्ववाये वसुदेवो महामतिः। उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत्
उग्रसेनस्य कंसस्तु बभूव बलवान्सुतः। ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता। राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा। अभिषिक्तस्तदाऽमात्यैः स वै तीव्रपराक्रमः
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः। निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिः सह