व्यूढोरस्कान्मागधानां विस्मयः समपद्यत। `अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः। अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः
भो शब्देनैव राजानमुचुस्ते तु महारथाः'। तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्। प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः। मौनमासीत्तदा पार्थभीमयोर्जनमेजय
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्। वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः। यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः। तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः। अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः। उपतस्थे जरान्धो विस्मितश्चाभवत्तदा
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः। इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः। तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान्। आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः। सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः
तानुवाच जरासन्धः सत्यसन्धो नराधिपः। विगर्हमाणः कौरव्य वेषग्रहणवैकृतान्।। न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः। के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ। एवं विरागवसना बहिर्माल्यानुलेपनाः
क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः'।। सत्यं वदत के यूयं सत्यं राजसु शोभते
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि। अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात्
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः। कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम्
एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम्। प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः। स्निग्धगमभीरया वाचा वाक्यं वाक्यविशारदः।। xकृष्ण उवाच
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप। स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत। विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्। क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्।। अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम्
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्। तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयटः
अद्वारेण रिम्पोर्गेहं द्वारेण सुहृदो गृहान्। प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्। प्रतिगृह्णीम् तद्विद्वि एतन्नः शाश्वतं व्रतम्
न स्मरामि कदा वैरं कृतं युष्माभिरित्युत। चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्
वैकृते वा सति कथं मन्यध्वं मामनागसम्। अरिं वै ब्रूत हे विप्राः सतां समय एष हि
अर्थधर्मोपघाताद्धि मनः समुपतप्यते। योऽनागसि प्रसजति क्षत्रियो हि न संशयटः