विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन्। ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः। दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्
पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः। ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्। दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः। युयुत्सवः प्रविविशुर्जरासन्धेन भारत
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्। स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम्
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः। राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः। बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः
कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे। वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः। निवेशनमथाजग्मुर्जरासन्धस्य धीमतः
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा। शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः
अशोभन्त महाराज बाहवो युद्धशालिनाम्। तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान्
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत। `अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः। अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः
भो शब्देनैव राजानमुचुस्ते तु महारथाः'। तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्। प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः। मौनमासीत्तदा पार्थभीमयोर्जनमेजय
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्। वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः। यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः। तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः। अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः। उपतस्थे जरान्धो विस्मितश्चाभवत्तदा
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः। इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः। तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान्। आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः। सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः
तानुवाच जरासन्धः सत्यसन्धो नराधिपः। विगर्हमाणः कौरव्य वेषग्रहणवैकृतान्।। न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः। के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ। एवं विरागवसना बहिर्माल्यानुलेपनाः
क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः'।। सत्यं वदत के यूयं सत्यं राजसु शोभते
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि। अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात्
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः। कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम्
एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम्। प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे