एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः।। अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्। हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम्। ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः। मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन्
यत्र मांसादमृषभमाससाद बृहद्रथः। तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत्
स्वपुरे स्थापयामास तेन चानह्य चर्मणा। यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्। द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्। शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम्। अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्
विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन्। ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः। दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्
पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः। ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्। दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः। युयुत्सवः प्रविविशुर्जरासन्धेन भारत
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्। स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम्
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः। राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः। बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः
कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे। वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः। निवेशनमथाजग्मुर्जरासन्धस्य धीमतः
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा। शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः
अशोभन्त महाराज बाहवो युद्धशालिनाम्। तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान्
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत। `अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः। अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः
भो शब्देनैव राजानमुचुस्ते तु महारथाः'। तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्। प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः। मौनमासीत्तदा पार्थभीमयोर्जनमेजय
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्। वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः। यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः। तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः। अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः। उपतस्थे जरान्धो विस्मितश्चाभवत्तदा
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः। इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम