ईशौ हितौ महात्मानौ सर्वकार्यप्रवर्तिनौ। धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्। रम्यं पद्मसरो गत्वा कालकूडमतीत्य च
गण्डकीं च महाशोणं सदानीरां तथैव च। एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते
उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्। अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्
अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा। कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्। गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्
एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान्। निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः
वैहारो विपुलः शैलो वाराहो वृषभस्तथा। तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः
एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः। रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः। निगूढा इव लोध्राणां वनैः कामिजनप्रियैः
यत्र दीर्घतमा नाम ऋषिः परमन्त्रितः'। शूद्रायां गौतमो यत्र महात्मा संशितव्रतः। औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः
गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि। भजते मागधं वंशं स नृपाणामनुग्रहः
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः। गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन
वनराजीस्तु पश्येमाः पिप्लानां मनोरमाः। लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ। स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः
अपारिहार्या मेघानां मागधा मनुना कृताः। कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्
पाण्डरे विपुले चैव तथा वाराहकेऽपि च। चैत्यके चज गिरिश्रेष्ठे मादङ्गे च शिलोच्चये
एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः। यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम्
वृषभस्य तमालस्य महावीर्यस्य वै तथा। गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः
कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः। पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः। मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात्
एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः।। अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्। हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम्। ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः। मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन्
यत्र मांसादमृषभमाससाद बृहद्रथः। तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत्
स्वपुरे स्थापयामास तेन चानह्य चर्मणा। यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्। द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्। शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम्। अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्