प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः
इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः।' एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम। जग्मतुः परया प्रीत्या परं पारं महोदधेः
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा। आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम्। तिमिंगिलसमाकीर्णं मकरैरावृतं तथा
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि। घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम्
आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं चापि सुरम्यं सरितां पतिम्
पातालज्वलनावासमसुराणां तथालयम्। भयंकराणां सत्त्वानां पयसो निधिमव्ययम्
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम्
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः। आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः
इत्येवं तरलतरोर्मिसंकुलं ते गम्भीरं विकसितमम्बरप्रकाशम्। पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह। न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्। शशाङ्ककिरणप्रख्यं कालवालमुभे तदा
निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्। विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्
ततः सा विनता तस्मिन्पणितेन पराजिता। अभवद्दुःखसंतप्ता दासीभावं समास्थिता
एतस्मिन्नन्तरे चापि गरुडः काल आगते। विना मात्रा महातेजा विदार्याण्डमजायत
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः। कामरूपः कामगमः कामवीर्यो विहंगमः
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः। विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः। घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः
तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम्। प्रमिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। असौ हि राशिः सुमहान्समिद्धस्तव सर्पति
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। गरुडो बलवानेष मम तुल्यश्च तेजसा
जातः परमतेजस्वी विनतानन्दवर्धनः। तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्
नागक्षयकरश्चै काश्यपेयो महाबलः। देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः। त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः
त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा। त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः। त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्
ह्यनागतं चोपगतं च सर्वम्