भ्रामयित्वा शतगुणमेकोनं येन भारत। गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः। एकोनयोजनशते सा पपात गदा शुभा
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता। गदावसानं तत्ख्यातं मथुरायाः समीपतः
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ। मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः
एवमेष तदा वीर बलिभिः कुकुरान्धकैः। वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः
पतितौ हंसडिभिकौ कंसश्च सगणो हतः। जरासन्धस्य निधने कालोऽयं समुपागतः
न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः। प्राणयुद्धेन जेतव्यः स इत्युपलभामहे
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः। मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः। न सन्देहो यथा युद्धमेकेनाप्युपयास्यति
अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः। भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति
अलं तस्य महाबाहुर्भीमसेनो महाबलः। लोकस्य समुदीर्णस्य निधनायान्तको यथा
यदि भीमबलं वेत्सि यदि ते प्रत्ययो मयि। भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः। भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ
अच्युताच्युत मामैवं व्याहरामित्रकर्शन। पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम्
यथा वदसि गोविन्द सर्वं तदुपपद्यते। नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी
येषामभिमुखी लक्ष्मीस्तेषां कृष्ण त्वमग्रतः'। निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः। राजसूयश्च मे लब्धो निदेशे त्व तिष्ठतः
क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते। अप्रमत्तो जगन्नाथ तथा कुरु समुपपद्यते
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे। धर्मकामार्थरहितो रोगार्त इव दुःखितः
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना। नाजेयोस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः। युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्। अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः
यतो हि निम्नं भवति नयन्ति हि ततो जलम्। यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम्
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्। वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्। पुरस्कृर्वीत कार्येषु कृष्णकार्यार्थसिद्धये
एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये। अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्। नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः। वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः। आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः
माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः'। अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्। रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः
इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ। एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ