साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप। तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका
संश्लिषिते मया दैवात्कुमारः समपद्यत। तव भाग्यान्महाराज हेतुमात्रमहं त्विह
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम्। गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा। आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्
तस्य नामाकरोच्चैव पितामहसमः पिता। जरया सन्धितो यस्माज्जरासन्धो भवत्वयम्
सोऽवर्धत महातेजा मागधाधिपतेः सुतः। प्रमाणबलसम्पन्नो हुताहुतिरिवानलः
एवं स ववृधे राजन्कुमारः पुष्करेक्षणः। लेन महता चापि यौवनस्थो बभूव ह'।। मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी
कस्यचित्त्वथ कालस्य पुनरेव महातपाः। मगधेषुपजक्राम भगवांश्चण्डकौशिकः
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः। सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत। स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः। उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा। पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति
अस्य रूपं च सत्वं च बलमूर्जितमेव च। एष श्रिया समुदितः पुत्रस्तव न संशयः
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः। अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः
पततो वैनतेयस्य गतिमन्ये यथा खगाः। विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते। न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति। प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः
एनमासाद्य राजानः समृद्धबलवाहनाः। विनाशमुपयास्यन्ति शलभा इव पावकम्
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति। वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः। शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम्
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः। सर्वभूतात्मभूतस्य वायोरिव शरीरिणः
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्। सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन्। विसर्जयामास नृपं बृहद्रथमथारिहन्
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः। अभिषिच्य जरासन्धं मगधाधिपतिस्तदा
बृहद्रथो नरपतिः परां निर्वृतिमाययौ। अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः। पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्
ततो वनस्थे पितरि मातृभ्यां सह भारत। जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे
अथ दीर्घस्य कालस्य तपोवनचरो नृपः। सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत्। वरप्रदानमखिलं प्राप्य राज्यमपालयत्
हते चैव मया कंसे सहंसडिभिके तदा। जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः। जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत