ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा। कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक्
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी। जग्राह मनुजव्याघ्र मांसशोणितभोजना
कर्तुकामा सुखवहे शकले सा तु राक्षसी। संयोजयामास तदा विधानबलचोदिता
ते समानीतमात्रे तु शकले पुरुषर्षभ। एकमूर्तिधरो वीरः कुमारः समपद्यत
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना। न शशाक समुद्वोदुं वज्रसारमयं शिशुम्
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः। प्राक्रोशदतिसंरब्धः सतोय इव तोयदः
तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः। निर्जगाम नरव्याघ्र राज्ञा सह परन्तप
ते चाबले परिम्लाने पयः पूर्णपयोधरे। निराशे पुत्रलाभाय सहसैवाब्यगच्छताम्
ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम्। तं च बालं सुबलिनं चिन्तयामास राक्षसी
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः। बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः
सा तं बालमुपादाय मेघलेखेन भास्करम्। कृत्वा च मानुषं रूपमुवाच वसुधाधिपम्
बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम्। तव पत्नीद्वये जातो द्विजातिवरशासनात्। धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे। तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम्
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च। अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम्
कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी। कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी। तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी। गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा
दानवानां विनाशाय स्थापिता दिव्यरूपिणी। यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम्
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात्। त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता। गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप। तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका
संश्लिषिते मया दैवात्कुमारः समपद्यत। तव भाग्यान्महाराज हेतुमात्रमहं त्विह
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम्। गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा। आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्
तस्य नामाकरोच्चैव पितामहसमः पिता। जरया सन्धितो यस्माज्जरासन्धो भवत्वयम्
सोऽवर्धत महातेजा मागधाधिपतेः सुतः। प्रमाणबलसम्पन्नो हुताहुतिरिवानलः
एवं स ववृधे राजन्कुमारः पुष्करेक्षणः। लेन महता चापि यौवनस्थो बभूव ह'।। मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी
कस्यचित्त्वथ कालस्य पुनरेव महातपाः। मगधेषुपजक्राम भगवांश्चण्डकौशिकः
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः। सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः