न च वंशकरः पुत्रस्तस्याजायत कश्चन। मङ्गलैर्बभिर्होमैः पुत्रकामाभिरिष्टिभिः
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्। स भार्याभ्यां च सहितो निर्वेदमगमद्धृशम्
राज्यं चापि परित्यज्य तपोवनमथाश्रयत्। ' वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः।। शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम्
यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम्। पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत्
बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत। ' उपविष्टः स तेनाथ अनुज्ञातो महात्मना
तमपृच्छत्तदा विप्रः किमागमनमित्यथ। विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च
स उवाच मुनिं राजा भगवन्नास्ति मे सुतः। अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम्
सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने। नाप्रजस्य मुने किर्तिः स्वधा चैवाक्षया भवेत्। एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः। परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः। पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा
भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्। किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे
एतच्छ्रुत्वा मुनिर्ध्यानमगमन्क्षुभितेन्द्रियः। तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह। अवानमशुकादष्टमेकमाम्रफलं किल
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च। राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम्
उवाच च महाप्राज्ञस्तं राजानं महामुनिः। गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप
एष ते तनयो राजन्मा तपेह तपोवने। प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम्
यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना। पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज
अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव। ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः
प्रियातिथेयतां चैव दीनानामन्ववेक्षणम्। तथा बलं च सुभहल्लोके कीर्ति च शाश्वतीम्
अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप। गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप
अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः। पौरैरनुगतश्चापि विवेश स्वपुरं ततः
यथासमयमाज्ञाय तदा स नृपसत्तमः। द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ
मुनेश्च बहुमानेन कालस्य च विपर्ययात्। ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे
तयोः समभवद्गर्भः फलप्राशनसम्भवः। ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह
अथ काले महाप्राज्ञ यथासमयमागते। जायेतामुभे राजञ्शरीरशकले तदा
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे। दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम्
उद्विग्रे सह संमन्त्र्य ते भगित्यौ तदाऽबले। सजीवे प्राणिशकले तत्यजाते सुदुःखिते
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे। निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः
दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा। अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे