कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः। बलेन सदृशं नास्ति वीर्यं तु मम रोचते
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति। निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये। सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति। जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः
दैन्यं यथा बलवति तथा मोहो बलान्विते। तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्। यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्
अनारम्भे हि नियतो भवेदगुणनिश्चयः। गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम्
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्। साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च। या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा। न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम
एतावदेव पुरुषैः कार्यं हृदयतोषणम्। नयेन विधिदृष्टेन यदुपक्रमते परान्
सुनयस्यानपायस्य संयोगे परमः क्रमः। सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः
अनयस्यानुपायस्य संयुगे परमः क्षयटः। संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः
ते वयं नयमास्थाय शत्रुदेशसमीपगाः। कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः।। पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः
व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह। इति बुद्धिमतां नीतिस्तन्ममापीह रोचते
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्। शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः। अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये
अथवैनं निहत्याजौ शेषेणापि समाहताः। प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः। यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः। यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः
अक्षौहिणीनां तिसृणां पतिः समरदर्पितः। राजा बृहद्रथो नाम मगधाधिपतिर्बली
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः। नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः
तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः। यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः
स्वराज्यं कारयामास मगधेषु गिरिव्रजे'। तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम। व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
स काशिराजस्य सुते यमजे भरतर्षभः। उपयेमे महावीर्यो रूपद्रविणसंयुते। तयोश्चकार समयं मिथः स पुरुषर्षभः
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा। स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः
प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः। तयोर्मध्यगतश्चापि रराज वसुधाधिपः
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः। विषयेषु निमग्रस्य तस्य यौवनमत्यगात्