यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि। यतस्व तेषां मोक्षाय जरासन्धवधाय च
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन। राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ। एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः। कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्। मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्। यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते। तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम। संन्यासं रोचये साधु कार्यस्यास्य जनार्दन। प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः। बलेन सदृशं नास्ति वीर्यं तु मम रोचते
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति। निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये। सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति। जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः
दैन्यं यथा बलवति तथा मोहो बलान्विते। तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्। यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्
अनारम्भे हि नियतो भवेदगुणनिश्चयः। गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम्
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्। साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च। या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा। न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम
एतावदेव पुरुषैः कार्यं हृदयतोषणम्। नयेन विधिदृष्टेन यदुपक्रमते परान्
सुनयस्यानपायस्य संयोगे परमः क्रमः। सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः
अनयस्यानुपायस्य संयुगे परमः क्षयटः। संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः
ते वयं नयमास्थाय शत्रुदेशसमीपगाः। कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः।। पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः
व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह। इति बुद्धिमतां नीतिस्तन्ममापीह रोचते
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्। शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः। अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये
अथवैनं निहत्याजौ शेषेणापि समाहताः। प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः