योजनान्ते शतद्वारं वीरविक्रमतोरणम्। अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः
अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले। आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः। अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे। कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः। `प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ
निशठश्च गदश्चैव सप्त चैते महारथाः। विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः
वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः। प्रसेनजिच्च यमलो राजराजगुणान्वितः
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु। पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश
वज्रसंहनना वीरी वीर्यवन्तो महाबलाः। स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप। सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत। दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम्
कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम्। एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च
एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम्। तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः
एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा। योत्स्यते स परामर्षी दिव्यास्रबलगर्वितः
न तु शक्यं जरासन्धे जीवमाने महाबल राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे। कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः
स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः। `अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः'। महादेवं महात्मानमुमापतिमरिन्दम
आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः। प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्। पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्
वयं चैव महाराज जरासन्धभयात्तदा। मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम्
यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि। यतस्व तेषां मोक्षाय जरासन्धवधाय च
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन। राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ। एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः। कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्। मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्। यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते। तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम। संन्यासं रोचये साधु कार्यस्यास्य जनार्दन। प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्