अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः। न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ। नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः। तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर
अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः। दत्ता न च हतो राजञ्जरासन्धो महाबलः
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः। रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे
हतो हंस इति प्रोक्तस्य केनापि भारत। तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत
विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे। इत्येतां मतिमास्थाय डिबिको निधनं गतः
तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः। प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ। पुरं शून्येन मनसा प्रययौ भरतर्षभ
ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे। पुनरान्दिनः सर्वे मधुरायां वसामहे
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना। कंसभार्या जरासन्धं दुहिता मागधं नृपम्। चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम। ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्
संस्मरन्तो विमनसो व्यपयाता नराधिप। पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम्
पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः। इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्। ततो निवेशं तस्यां च कृतवन्तो वयं नृप
तथैव दुर्गसंस्कारं देवैरपि दुरासदम्। स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः। आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्। एवं वयं जरासन्धादभितः कृतकिल्बिषाः
सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः। त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि
योजनान्ते शतद्वारं वीरविक्रमतोरणम्। अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः
अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले। आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः। अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे। कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः। `प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ
निशठश्च गदश्चैव सप्त चैते महारथाः। विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः
वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः। प्रसेनजिच्च यमलो राजराजगुणान्वितः
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु। पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश
वज्रसंहनना वीरी वीर्यवन्तो महाबलाः। स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप। सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते