जरासन्धं गतस्त्वेव पुरा यो न मया हतः। पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्। आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः। पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः
चतुर्थभाङ्महाराज भोज इन्द्रसखो बली। विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान्
भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत्। स भक्तो मागधं राजा भीष्मकः परवीरहा
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः। भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः
न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः। पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो। जरासन्धभयादेव प्रतीचीं दिशमास्थिताः
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः। सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह। दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः। मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः
तथैव सर्वपञ्चाला जरासन्धभायर्दिताः। स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम्
अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः। अनिर्गते सारबले मागधेभ्यो गिरिव्रजात्
उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्'। बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः
अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले। बलेन तेन स्वज्ञातीनभिभूय वृथामतिः
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्। भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता। दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्। हतौ कंससुनामानौ मया रामेण चाप्युत
हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः। मया रामेण चान्यत्र ज्ञातयः परिपालितः
भये तु समतिक्रान्ते जरासन्धे समुद्यते। मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः
अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः। न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ। नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः। तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर
अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः। दत्ता न च हतो राजञ्जरासन्धो महाबलः
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः। रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे
हतो हंस इति प्रोक्तस्य केनापि भारत। तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत
विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे। इत्येतां मतिमास्थाय डिबिको निधनं गतः
तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः। प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ। पुरं शून्येन मनसा प्रययौ भरतर्षभ